Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 15 (Kāṇḍa 15) • Sūkta 16

Kāṇḍa 15 Sūkta 16

काण्डम् 15 • सूक्तम् 16

Kāṇḍa 15 Sūkta 16 of the Shaunaka Saṁhitā of Atharvaveda with 7 mantras.

Total: 7 Verses • Citations: AV 15.16.1–7 • 2 Lexicon Terms
१-७ अथर्वा। अध्यात्मं, व्रात्यः। १,३ साम्नी उष्णिक्, २,४-५ प्राजापत्या उष्णिक्,
६ याजुषी त्रिष्टुप्, ७ आसुरी गायत्री।
तस्य॒ व्रात्य॑स्य ।योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी
तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का
तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या
तस्य॒ व्रात्य॑स्य । योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा
तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा
तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः
तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः
← Previous (Ch. 504) Full Table of Contents Next (Ch. 506) →