ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम् । तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते
सुरा॑वन्तं बर्हि॒षद॑ᳪ सु॒वीरं॑ य॒ज्ञᳪ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒: सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रँ॒ यज॑मानाः स्व॒र्काः
यस्ते॒ रस॒: सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्म॒: सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम्
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ ।
इ॒मं तᳪ शु॒क्रं मधु॑मन्त॒मिन्दु॒ᳪ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि
यदत्र॑ रि॒प्तᳪ र॒सिन॑: सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि
पि॒तृभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॑: पिताम॒हेभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॒: प्रपि॑तामहेभ्यः स्वधा॒यिभ्य॑: स्व॒धा नम॑: । अक्ष॑न् पि॒तरो ऽमी॑मदन्त पि॒तरो ऽती॑तृपन्त पि॒तर॒: पित॑र॒: शुन्ध॑ध्वम्
पु॒नन्तु॑ मा पि॒तर॑: सो॒म्यास॑: पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॒श्नवै
अग्न॒ आयू॑ ᳪषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म्
पु॒नन्तु॑ मा देवज॒ना॑: पु॒नन्तु॒ मन॑सा॒ धिय॑: । पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑
प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूँ॒१ रनु॑
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनातु मा
पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑:
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॒स्त॒न्वो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒मादे॑षु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम्
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ । तेषाँ॑ल्लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम्
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ᳪ श्रीर्मयि॑ कल्पताम॒स्मिँल्लो॒के श॒तᳪ समा॑:
द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च
इ॒दᳪ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीर॒ᳪ सर्व॑गणᳪ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ ।
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: ।
तेषां॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म
ये न॒: पूर्वे॑ पि॒तर॑: सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः स॑ररा॒णो ह॒वीᳪष्यु॒शन्नु॒शद्भि॑: प्रतिका॒मम॑त्तु
त्वᳪ सो॑म॒ प्र चि॑कितो मनी॒षा त्वᳪ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑:
त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: ।
व॒न्वन्नवा॑तः परि॒धीँ१ रपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः
त्वᳪ सो॑म पि॒तृभि॑: संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम्
बर्हि॑षदः पितर ऊ॒त्य र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात
आऽहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः
उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॒षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान्
आ य॑न्तु नः पि॒तर॑: सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानै॑: ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ ब्रुवन्तु॒ ते॒ऽवन्त्व॒स्मान्
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑: – सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीᳪषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिᳪ सर्व॑वीरं दधातन
ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभ्य॑: स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॒ कल्पयाति