यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त्
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त्
केशा॒ न शी॒र्षन्यश॑से श्रियै॒ शिखा॑ सि॒ᳪहस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑
इन्द्र॑स्य रू॒पᳪ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः
अ॒पाᳪ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्र॑ᳪ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑
अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृत॒: सोम॒ इन्दु॑: