अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ᳪसे सो॑मपी॒थं य आ॒शुः ।
ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम्
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
मा हि॑ᳪसिष्ट पितर॒: केन॑ चिन्नो॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्य॑: पितर॒स्तस्य॒ वस्व॒: प्र य॑च्छत॒ त इ॒होर्जं॑ दधात
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् । तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म्
यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृध॑: ।
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ
त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादा॑: पि॒तृभ्य॑: स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीᳪषि॑
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नᳪ सु॑वृ॒जना॑सु वि॒क्षु
अधा॒ यथा॑ नः पि॒तर॒: परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न् दीधि॑तिमुक्थ॒शास॒: क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒: समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे
अ॒पां फेने॑न॒ नमु॑चे॒: शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑य॒ स्पृध॑:
सोमो॒ राजा॒मृत॑ᳪ सु॒त ऋ॑जी॒षेणा॑जहान्मृ॒त्युम् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
अ॒द्भ्यः क्षी॒रं व्य॑पिब॒त् क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा ह॒ᳪसः शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्र॒यिम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑त॒ उल्बं॑ जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाᳪ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑ᳪ शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिण॑ ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञᳪ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन्
तद॑स्य रू॒पम॒मृत॒ᳪ शची॑भिस्त॒स्रो द॑धुर्दे॒वता॑: सᳪररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य मा॒ᳪसम॑भव॒न्न ला॒जाः
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् ।
अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपु॑: ।
रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र॒ᳪ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेत॑: ।
अपाम॑तिं दुर्म॒तिं बाध॑माना॒ ऊव॑ध्यं॒ वात॑ᳪ स॒ब्वं तदा॒रात्
इन्द्र॑: सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम्
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदा॒: पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः ।
प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ उत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्य॑:
मुख॒ᳪ सद॑स्य॒ शिर॒ इत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती ।
चप्पं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒: कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते
अवि॒र्न मे॒षो न॒सि वी॒र्या॒य प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान