Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 17

Prakāśa 17: अनुभावप्रकाशः

प्रकाशः 17 • अनुभावप्रकाशः

Prakāśa 17 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 524 Verses • Citations: SP 17.1–524 • 4 Lexicon Terms • Page 8 of 18 (Verses 30 shown)
तं तं अणुसिक्खिरीए दीहो दिअहो ण संपडइ॥ ६४॥
(यद्यत् करोषि यद् यज्जल्पसि यथा त्वं निरीक्षसे।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते॥)
२. नेत्रभ्रूवक्त्रकर्मणां विशेषेण लसनं विलासः; यथा—(मामा. १.२८)
सभ्रूविलासमथ सोऽयमितीव नाम सप्रत्यभिज्ञमिव मामवलोक्य तस्याः।
अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः॥ ६५॥
३. विभूषणादिनामनादरविन्यासो विच्छित्तिः; यथा—
अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं; विभवस्तु शेषः॥ ६६॥
४. भूषणादीनामस्थानप्रयोगो विभ्रमः; यथा—
चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्॥ ६७॥
५. स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिञ्चितम्; यथा—
पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्द्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ६८॥ (किराता. ९.५०)
६. इष्टजनकथायां तद्भावभावनोत्थितो विकारो मोट्टायितम्; यथा— (माघ. ९.६४)
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः।
घनतां ध्रुवं नयति तेन भवद्‌गुणपूगपूरितमतृप्‍ततया॥ ६९॥
७. केशस्तनाधरादिग्रहणाद् दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितम्; यथा— (किराता. ९.४९)
आदृता नखपदैः परिरम्भाश्‍चुम्बितानि घनदन्तनिपातैः।
सौकुमार्यगुणसम्भृतकीर्त्तिर्वाम एव सुरतेष्वपि कामः॥ ७०॥
८. अभीष्टप्राप्‍तावमानगर्वसम्भावनादरकृतो विकारो बिब्बोकः; यथा—
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ ७१॥
९. सुकुमारतया करचरणाङ्गन्यासो ललितम्; यथा—(माघ. ७.१९)
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम॥ ७२॥
१०. वक्तव्यसमयेऽपि वचसाऽनभिभाष्य क्रियानुष्ठानं विहृतम्; यथा—
← Previous (Ch. 16) Full Table of Contents Next (Ch. 18) →