३. अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनं; यथा—
राहोश्चन्द्रकलाम्॰॥ ४३॥ (मामा. ५.२८; द्र १०.९७)
४. नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसंप्रहारः सम्फेटः यथा—
कृष्टा येन शिरोरुहेषु॥ ४४॥ (वेसं. ३.४२; द्र.१४.१३३)
(३. कैशिकी)
श्रृङ्गारप्राया कैशिकी।
या श्लक्ष्णनेपथ्यविशेषयुक्ता॥ ४५॥ (नाशा. २०.५३; द्र.१२.३४)
तस्या अपि चत्वार्येवाङ्गानि— नर्म, नर्मस्फञ्जः, नर्मस्फोटः, नर्मगर्भ इति।
१. आस्थापितश्रृङ्गारं वचो विचेष्टितं वाऽपि सपरिहासं नर्म। यथा—
वयं तथा नाम यथाऽऽत्थ॥ ४६॥ (मामा. ७.१; द्र.७.९६)
२. प्रथमसङ्गमे भयावसानं सम्भोगाश्रयं वाक्यादिकर्म नर्मस्फञ्जः। यथा—
प्राप्ताऽसौ वृषपर्वणः प्रियसुता सङ्केतषण्डं सखे!॥ ४७॥ (द्र.१२.१२५)
३. आविर्भूताभिलाषानुभावभावयोरकाण्ड एव सम्भोगभङ्गो नर्मस्फोटः। यथा—
कथय किमिह बाले! का त्वमित्युल्लपंस्तां॥ ४८॥ (पृ. ९७३)
४. कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः। यथा—
अथाजिनाषाढधरः॥ ४९॥ (कुसं. ५.३०; पृ.७१८)
(४. सात्त्वती)
सत्त्वप्रधाना सात्त्वती।
या सात्त्वतेनेह गुणेन युक्ता॥ ५०॥ (नाशा. २०.३६, श्रृ.१२.३५, पृ.६९९) तस्या अपि चत्वार्येवाङ्गानि—उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति।
१. परस्परासूयया अर्थेषूत्थानमुत्थापकः। यथा—
प्रहर नमतु चापं प्राक्प्रहारप्रियोऽहं॥ ५१॥ (मवीच. २.४९, श्रृ.१२.१२८, पृ.७१८)
२. प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः। यथा—
मुनिमभिमुखतां निनीषवो याः॥ ५२॥ (किराता. १०.४० पृ.७१९)
३. सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः। यथा—(वेसं. ३.४०)
कथमपि न निषिद्धो दुःखिना भीरुणा वा॥ ५३॥ (पृ. ७१९)
४. कार्यमन्त्रार्थप्रभावदैवादिभिः सङ्घातभेदः सङ्घात्यकः। यथा—
अपश्यद्भिरिवेशानं॥ ५४॥ (किराता. १५.२, पृ.७१९)
(३.३. प्रवृत्तिः)
वेषविन्यासक्रमः प्रवृत्तिः।
सा चतुर्धा पौरस्त्यौढ्रमागधी—दाक्षिणात्या—आवन्त्यादिभेदात्। तत्र—