इतिब्रुवन्तंउवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् । उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥
उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन । बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते । मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥
निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥
प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते । समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥
अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः । यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां । भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे । अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः । स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥
स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥
सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः । स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः । अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् । अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥
अशुक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥
बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः । जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥
बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः । निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः । प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥
परेभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । हृतेऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥
सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥
कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा । विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना । न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥