पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् । संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः । यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥
आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि । दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः । यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा । क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥
कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् । व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥
सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः । स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥
रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति । लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥
धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः । दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥
भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण । दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥