Skip to main content
Search
SV
Śiśupālavadham • Chapter 14

Canto 14

चतुर्दशः सर्गः (श्रीकृष्णार्घदानवर्णनम्)

Canto 14 of Śiśupālavadham.

Total: 88 Verses • Citations: SV 14.1–88 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
SV 14.1 रथोद्धता
तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥
SV 14.2 रथोद्धता
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥
SV 14.3 रथोद्धता
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥
SV 14.4 रथोद्धता
बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः । सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥
SV 14.5 रथोद्धता
सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥
SV 14.6 रथोद्धता
सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥
SV 14.7 रथोद्धता
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥
SV 14.8 रथोद्धता
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥
SV 14.9 उपजातिः
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥
SV 14.10 रथोद्धता
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥
SV 14.11 रथोद्धता
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा । शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥
SV 14.12 रथोद्धता
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥
SV 14.13 रथोद्धता
सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते । किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥
SV 14.14 रथोद्धता
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥
SV 14.15 रथोद्धता
शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः । त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥
SV 14.16 रथोद्धता
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति । तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥
SV 14.17 रथोद्धता
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम । सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥
SV 14.18 रथोद्धता
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः । आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥
SV 14.19 रथोद्धता
तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः । कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥
SV 14.20 रथोद्धता
शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया । याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥
SV 14.21 रथोद्धता
सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥
SV 14.22 रथोद्धता
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया । शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥
SV 14.23 रथोद्धता
नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे । तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलः प्रयोगिणः ॥
SV 14.24 रथोद्धता
संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति । शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥
SV 14.25 रथोद्धता
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव । प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥
SV 14.26 रथोद्धता
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् । वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥
SV 14.27 रथोद्धता
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् । गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥
SV 14.28 रथोद्धता
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः । द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥
SV 14.29 रथोद्धता
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे । नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥
SV 14.30 रथोद्धता
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् । गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →