Skip to main content
Search
ST
Śatakatrayam • Chapter 01

Canto 1

नीतिशतकम्

Canto 1 of Śatakatrayam.

Total: 109 Verses • Citations: ST 1.1–109 • 1 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
ST 1.31 वसन्ततिलका
लाङ्गूल-चालनमधश्-चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिण्डदस्य कुरुते गज-पुङ्गवस्तु धीरं विलोकयति चाटु-शतैश्च भुङ्क्ते ॥
ST 1.32 अनुष्टुप्
परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥
ST 1.33 अनुष्टुप्
कुसुम-स्तवकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा ॥
ST 1.34 शार्दूलविक्रीडितम्
सन्त्यन्येऽपि बृहस्पति-प्रभृतयः सम्भाविताः पञ्चषास्तान्प्रत्येष विशेष-विक्रम-रुची राहुर्न वैरायते । द्वावेव ग्रसते दिवाकर-निशा-प्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानव-पतिः शीर्षावशेषाकृतिः ॥
ST 1.35 हरिणी
वहति भुवन-श्रेणिं शेषः फणाफलक-स्थितां कमठ-पतिना मध्ये-पृष्ठं सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोधिरनादरादहह महतां निःसीमानश्चरित्र-विभूतयः ॥
ST 1.36 शिखरिणी
वरं पक्ष-च्छेदः समदमघवन्-मुक्त-कुलिशप्रहारैरुद्गच्छद्-बहुल-दहनोद्गार-गुरुभिः । तुषाराद्रेः सूनोरहह पितरि क्लेश-विवशे न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥
ST 1.37 आर्या
सिंहः शिशुरपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥
ST 1.38 शार्दूलविक्रीडितम्
जातिर्यातु रसातलं गुण-गणैस्तत्राप्यधो गम्यतां शीलं शैल-तटात्पतत्वभिजनः सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणस्तृण-लव-प्रायाः समस्ता इमे ॥
ST 1.39 अनुष्टुप्
धनमर्जय काकुत्स्थ धन-मूलमिदं जगत् ।अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥
ST 1.40 वसन्ततिलका
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव ।अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥
ST 1.41 उपजातिः
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥
ST 1.42 शार्दूलविक्रीडितम्
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रणयात्समृद्धिरनयात्त्याग-प्रमादाद्धनम् ॥
ST 1.43 आर्या
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
ST 1.44 शिखरिणी
मणिः शाणोल्लीढः समर-विजयी हेति-दलितो मद-क्षीणो नागः शरदि सरितः श्यान-पुलिनाः । कला-शेषश्चन्द्रः सुरत-मृदिता बाल-वनिता तन्-निम्ना शोभन्ते गलित-विभवाश्चार्थिषु नराः ॥
ST 1.45 शिखरिणी
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्सम्पूर्णः कलयति धरित्रीं तृण-समाम् ।अतश्चानैकान्त्याद्गुरु-लघुतयाऽर्थेषु धनिनामवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥
ST 1.46 वसन्ततिलका
राजन्दुधुक्षसि यदि क्षिति-धेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नाना-फलैः फलति कल्पलतेव भूमिः ॥
ST 1.47 वसन्ततिलका
सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्य-व्यया प्रचुर-नित्य-धनागमा च वाराङ्गनेव नृप-नीतिरनेक-रूपा ॥
ST 1.48 शालिनी
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्र-संरक्षणं च । येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥
ST 1.49 शार्दूलविक्रीडितम्
यद्धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥
ST 1.50 अनुष्टुप्
त्वमेव चातकाधारोऽ सीति केषां न गोचरः । किमम्भोद-वरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥
ST 1.51 शार्दूलविक्रीडितम्
रे रे चातक सावधान-मनसा मित्र क्षणं श्रूयतामम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः । केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥
ST 1.52 द्रुतविलम्बितम्
अकरुणत्वमकारण-विग्रहः परधने परयोषिति च स्पृहा । सुजन-बन्धुजनेष्वसहिष्णुता प्रकृति-सिद्धमिदं हि दुरात्मनाम् ॥
ST 1.53 अनुष्टुप्
दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
ST 1.54 शार्दूलविक्रीडितम्
जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥
ST 1.55 शार्दूलविक्रीडितम्
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्-विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥
ST 1.56 पृथ्वी
शशी दिवस-धूसरो गलित-यौवना कामिनी सरो विगत-वारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धन-परायणः सतत-दुर्गतः सज्जनो नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥
ST 1.57 अनुष्टुप्
न कश्चिच्चण्ड-कोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो वहति पावकः ॥
ST 1.58 मन्दाक्रान्ता
मौनोमूकः प्रवचन-पटुर्बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परम-गहनो योगिनामप्यगम्यः ॥
ST 1.59 वसन्ततिलका
उद्भासिताखिल-खलस्य विशृङ्खलस्य प्राग्-जात-विस्तृत-निजाधम-कर्म-वृत्तेः । दैवादवाप्त-विभवस्य गुण-द्विषोऽस्य नीचस्य गोचर-गतैः सुखमाप्यते ॥
ST 1.60 उपजातिः
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्-जनानाम् ॥
Full Table of Contents Next (Ch. 2) →