(शकुन्तला शृङ्गारलज्जां रूपयति)
(उभयोराकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् ।
ततः किं भवेत् ।
इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि ।
वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।
आर्य अनुग्रह इवेयमभ्यर्थना ।
भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।इयं च वः सखी तदात्मजेति कथमेतत् ।
शृणोत्वार्यः ।अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।
अस्ति । श्रूयते ।
तमावयोः प्रियसख्याः प्रभवमवगच्छ ।उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
उज्झितशब्देन जनितं मे कौतूहलम् ।आमूलात्श्रोतुमिच्छामि ।
शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।
अनसूया ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य (इत्यर्धोक्ते लज्जया विरमति)
परस्ताज्ज्ञायत एव । सर्वथाप्सरःसंभवैषा ।
अथ किम् ।
उपपद्ये ।
मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥
(शकुन्तलाधोमुखी तिष्ठति)
(आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
(सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा)
पुनरपि वक्तुकाम इवार्यः ।
(शकुन्तलां सखीमङ्गुल्या तर्जयति)
सम्यगुपलक्षितं भवत्या ।अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
अलं विचार्य ।अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
इत्सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् ।अत्यन्तमात्मसदृशेक्षणवल्लभाभिर् आहो निवत्स्यति सम हरिणाङ्गनाभि ॥
आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः ।
(आत्मगतम्)अन्दुरवापेयं खलु प्रार्थना ।