Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 01

Canto 1

प्रथमोऽङ्कः

Canto 1 of Abhijñānaśākuntalam.

Total: 188 Verses • Citations: AS 1.1–188 • 1 Lexicon Terms • Page 4 of 7 (Verses 30 shown)
एष नूनं तवात्मगतो मनोरथः । (इति कलशमावर्जयति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् ।अथवा कृतं संदेहेन
AS 1.93 वंशस्थम्
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥
तथापि तत्त्वत एनामुपलभ्ये ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(ससंभ्रमम्)अम्भो । सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां रूपयति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 1.97 शिखरिणी
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥
न एष ध्र्ष्टो विरमति ।अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।
व्याख्या / Traditional Commentary & Notes
sp: उभे
(सस्मितम्) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।
राजा अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् (इत्यर्धोक्ते स्वगतम्) राजभावस्त्वभिज्ञातो भवेत् । भवत्वेवं तावदभिधास्ये ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(पदान्तरे स्थित्वा ।सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 1.103 आर्या
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥
(सर्वा राजानं दृष्टा किंचिदिव संभ्रान्ताः)
व्याख्या / Traditional Commentary & Notes
sp: अनसूया
आर्यण्न खलु किमप्यत्याहितम् ।इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । (इति शकुन्तलां दर्शयति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
(शकुन्तलाभिमुखो भूत्वा)अपि तपो वर्धते ।
(शकुन्तला साध्वसादवचना तिष्ठति)
व्याख्या / Traditional Commentary & Notes
sp: अनसूया
इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर ।इदं पादोदकं भविष्यति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भवतीनां सूनृतया एव कृतमातिथ्यम् ।
व्याख्या / Traditional Commentary & Notes
sp: प्रियंवदा
तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
व्याख्या / Traditional Commentary & Notes
sp: अनसूया
हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् ।अत्रोपविशामः (इति सर्वा उपविशन्ति)
व्याख्या / Traditional Commentary & Notes
sp: शकु
(आत्मगतम्) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सर्वा विलोक्य)अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
व्याख्या / Traditional Commentary & Notes
sp: प्रि
(जनान्तिकम्)अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते ।
व्याख्या / Traditional Commentary & Notes
sp: अन
सखि मम अप्यस्ति कौतूहलम् । पृच्छामि तावदेनम्
आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(आत्मगतम्) हृदय मोत्ताम्य ।एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(आत्मगतम्) कथमिदानीमात्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु ।एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः ।
Full Table of Contents Next (Ch. 2) →