Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 39

Maṇḍala 5 Sūkta 39

मण्डलम् 5 • सूक्तम् 39

Maṇḍala 5 Sūkta 39 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 5.39.1–5 • 3 Lexicon Terms
५ भौमोऽत्रिः। इन्द्रः। अनुष्टुप्, ५पङ्क्तिः।

यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।

राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र
यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।

वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑
यत् ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।

तेन॑ दृ॒ळहा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिर॑:
अस्मा॒ इत् काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।

तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिर॑: शुम्भ॒न्त्यत्र॑यः
← Previous (Ch. 392) Full Table of Contents Next (Ch. 394) →