Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 38

Maṇḍala 5 Sūkta 38

मण्डलम् 5 • सूक्तम् 38

Maṇḍala 5 Sūkta 38 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 5.38.1–5 • 3 Lexicon Terms
५ भौमोऽत्रिः। इन्द्रः। अनुष्टुप्।

उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो ।

अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय
यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे ।

प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म्
शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒साप॑: ।

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः
उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द् दक्ष॑स्य॒ तव॑ वृत्रहन् ।

अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒ऽस्मभ्यं॑ नृमणस्यसे
नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो ।

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः
← Previous (Ch. 391) Full Table of Contents Next (Ch. 393) →