Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 21

Maṇḍala 1 Sūkta 21

मण्डलम् 1 • सूक्तम् 21

Maṇḍala 1 Sūkta 21 of the Ṛgveda Saṁhitā with 6 mantras.

Total: 6 Verses • Citations: RV 1.21.1–6 • 3 Lexicon Terms
६ मेधातिथिः काण्वः। इन्द्राग्नी। गायत्री।

इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित् स्तोम॑मुश्मसि । ता सोमं॑ सोम॒पात॑मा
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः । ता गा॑य॒त्रेषु॑ गायत
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे । सो॒म॒पा सोम॑पीतये
उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् । इ॒न्द्रा॒ग्नी एह ग॑च्छताम्
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् । अप्र॑जाः सन्त्व॒त्रिण॑:
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे । इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम्
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →