Skip to main content
Search
Ch. 2 RV 2.49
Full Chapter
RV • Chapter 2: Canto 2

RV 2.49

Canonical Ref: RV 2.49
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथेति पक्षआन्तरे, अथवा। एकैव धेनुर्यस्य तस्मात्। अयं कोपकारणोपन्यास इति ज्ञेयम्। अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात्। `चण्डस्त्वत्यन्तकोपनः` इत्यमरः (अ.को.3|1|32)। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि इति काकुः। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानात्पञ्चमी। अल्पवित्तस्य धनहानिरतिदुःसहेति भावः। अस्य गुरोर्मन्युः क्रोधः। `मन्युर्दैन्ये क्रतौ क्रुधि` इत्यमरः (अ.को.3|1|32)। घटा इवोधांसि यासां ता घटोध्नीः। `ऊधसोऽनङ्` (पा.5।4।131) इत्यनङादेशः। `बहुव्रीहेरूधसो ङीष्` (पा.4।1।25) इति ङीष्। कोटिशो गाः स्पर्शयता प्रतिपादयता। `विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्` इत्यमरः (अ.को.2|7|31)। भवता विनेतुमपनेतुं शक्यः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.49. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.48) All Verses in Chapter 2 Next Verse (RV 2.50) →