Skip to main content
Search
Ch. 2 RV 2.48
Full Chapter
RV • Chapter 2: Canto 2

RV 2.48

Canonical Ref: RV 2.48
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ! पितेव पासि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भूतेति॥ तव भूतेष्वनुकम्पा कृपा चेत्। `कृपा दयानुकम्पा स्यात्` इत्यमरः (अ.को.1|7|19)। कृपैव वर्तते चेदित्यर्थः। तर्हि त्वदन्ते तव नाशे सति, इयमेका गौः। स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती। भवेत्, जीवेदित्यर्थथः। `स्वस्त्याशीःक्षेमपुण्यादौ` इत्यमरः (अ.को.1|7|19)। हे प्रजानाथ! जीवन् पुनः पितेव प्रजा उपप्लवेभ्यो विपद्भ्यः शश्वत् सदा ।`पुनः सदार्थयोः शश्वत्` इत्यमरः (अ.को.1|7|19)। पासि रक्षसि। स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्त्राणमित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.48. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.47) All Verses in Chapter 2 Next Verse (RV 2.49) →