Skip to main content
Search
Ch. 2 RV 2.44
Full Chapter
RV • Chapter 2: Canto 2

RV 2.44

Canonical Ref: RV 2.44
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मान्य इति॥ प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः। अलङ्घ्यशासन इत्यर्थः। शासनं च `सिंहत्वमङ्कागतसत्त्ववृत्ति`(2।38) इत्युक्तरूपम्। तर्हि विसृज्य गम्यताम्; नेत्याह-गुरोरपीति। पुरस्तादग्रे नश्यदिदमाहिताग्नेगुरोर्धनमपि गोरूपमनुपेक्षणीयम्। `आहिताग्नेः` इति विशेषणेनानुपेक्षाकारणं हविः साधनत्वं सूचयति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.44. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.43) All Verses in Chapter 2 Next Verse (RV 2.45) →