Skip to main content
Search
Ch. 2 RV 2.43
Full Chapter
RV • Chapter 2: Canto 2

RV 2.43

Canonical Ref: RV 2.43
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
संरुद्धचेष्टस्य मृगेन्द्र! कामं हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): संरुद्धेति॥ हे मृगेन्द्र! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचोवाक्यं कामं हास्यं परिहसनीयम्। यद्वचः `स त्वं मदीयेन`(2।45) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि। तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति। हि यतो भवान् प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति। `विदो लटो वा` (पा.3।4।83)इति णलादेशः। अतोऽभिधास्ये वक्ष्यामि। वच इति प्रकृतं कर्म संबध्यते। अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति। अतस्तु मौनमेव भूषणम्। त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि। अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.43. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.42) All Verses in Chapter 2 Next Verse (RV 2.44) →