Skip to main content
Search
Ch. 17 RV 17.68
Full Chapter
RV • Chapter 17: Canto 17

RV 17.68

Canonical Ref: RV 17.68
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् । आ तीर्थादप्रतीघातं स तस्याः फलमानशे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति चतुर्विधाम्। सामाद्युपायैरिति शेषः। राजनीतिं दण्डनीतिं क्रमात् सामादिक्रमादेव प्रयुञ्जानः स राजा। आ तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम्। `योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्` इति हलायुधः। तस्या नीतेः फलमप्रतीघातमप्रतिबन्धं यथा तथा आनशे प्राप्तवान्। मन्त्रादिषउ यमुद्दिश्य य उपायः प्रयुज्यते, स तस्य फलतीत्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.68. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.67) All Verses in Chapter 17 Next Verse (RV 17.69) →