Skip to main content
Search
Ch. 17 RV 17.67
Full Chapter
RV • Chapter 17: Canto 17

RV 17.67

Canonical Ref: RV 17.67
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलमृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। `आतोऽनुपसर्गे कः` (पा.3।2।3) इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। `इगुपध`- (पा.3।1।135) इत्यादिना कप्रत्ययः। बभूव। `इदमत्र प्रयोक्तव्यम्` इत्याद्यज्ञासीदित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.67. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.66) All Verses in Chapter 17 Next Verse (RV 17.68) →