Skip to main content
Search
Ch. 17 RV 17.48
Full Chapter
RV • Chapter 17: Canto 17

RV 17.48

Canonical Ref: RV 17.48
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): न तस्येति॥ न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा एव दीधितयो रश्मयो यस्य तस्य। `प्रणिधिः प्रार्थने चरे` इति शाश्वतः। तस्य राज्ञः। व्यभ्रस्य निर्मेधस्य विवस्वतः सूर्यस्येव। मण्डले स्वविषये किंचिदल्पमष्यदृष्टमज्ञातं नाभवन्नासीत्। स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.48. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.47) All Verses in Chapter 17 Next Verse (RV 17.49) →