Skip to main content
Search
Ch. 17 RV 17.47
Full Chapter
RV • Chapter 17: Canto 17

RV 17.47

Canonical Ref: RV 17.47
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कातर्यमिति॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम्। शौर्यं `केवलम्` इत्यनुषञ्जनीयम्। केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम्। व्याघ्रादिचेष्टाप्रायमित्यर्थः। `व्याघ्रादयो वनचराः पशवः श्वापदा मताः` इति हलायुधः। अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीति-शौर्याभ्यां सिद्धिं जयप्राप्तिम्। अन्वियेष गवेषितवान् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.47. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.46) All Verses in Chapter 17 Next Verse (RV 17.48) →