Skip to main content
Search
Ch. 16 RV 16.82
Full Chapter
RV • Chapter 16: Canto 16

RV 16.82

Canonical Ref: RV 16.82
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम्? ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति॥ त्वाम्। `ओएदनान्तरस्तण्डुल` इतिवत् कार्यान्तरः कार्यार्थः। `स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्` इति शाश्वतः। स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि। `आत्मा वै पुत्रनामासि`(आश्व.ग-.1।15) इति श्रुतेरित्यर्थः। स जानन्नहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः। `धृ प्रीतौ` इति धातोः स्त्रियां क्तिन्। विघातं कथं नामाचरेयम्? असंभावितमित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.82. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.81) All Verses in Chapter 16 Next Verse (RV 16.83) →