Skip to main content
Search
Ch. 16 RV 16.81
Full Chapter
RV • Chapter 16: Canto 16

RV 16.81

Canonical Ref: RV 16.81
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
त्रौलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्रैलोक्येति॥ अस्त्रं विद्वानस्त्रविद्वान्। `न लोक-` (पा.2।3।69) इत्यादिना षष्ठीसमासनिषेधः। `द्वितीया श्रिता-` (पा.2।1।24) इत्यत्र `गम्यादीनामुपसंख्यानाद्द्वितीया`(वा.1247) इति योगविभागाद्वा समासः। गारुडास्त्रमहिमाभिज्ञ इत्यर्थः। कुमुदः। त्रयो लोकास्त्रैलोक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम्। अत एव प्रभावाद्द्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मूर्ध्नाऽभिवन्द्य प्रणम्य बभाषे ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.81. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.80) All Verses in Chapter 16 Next Verse (RV 16.82) →