Skip to main content
Search
Ch. 1 RV 1.40
Full Chapter
RV • Chapter 1: Canto 1

RV 1.40

Canonical Ref: RV 1.40
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। `दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि` इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। `पुमान्स्त्रिया` (पा.1।2।67) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। `स्त्रीपुंसौ मिथुनं द्वन्द्वम्` इत्यमरः (अ.को.2|5|41)। परस्पराक्ष्णां सादृश्यं पश्यन्तौ। `द्वन्द्व`शब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.40. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.39) All Verses in Chapter 1 Next Verse (RV 1.41) →