Skip to main content
Search
Ch. 1 RV 1.39
Full Chapter
RV • Chapter 1: Canto 1

RV 1.39

Canonical Ref: RV 1.39
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
मनोभिरामाः श्रृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मनोभिरामा इति॥ रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-`नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ॥` स च तन्त्रीकण्ठजन्मा स्वरविशेषः। `निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥` इत्यमरः (अ.को.2|5|33)। षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-`षड्जं मयूरो वदति` इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। `केका वाणी मयूरस्य` इत्यमरः (अ.को.2|5|33)। ताः केकाः शृण्वन्तौ। इति श्लोकार्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.39. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.38) All Verses in Chapter 1 Next Verse (RV 1.40) →