इतीयमक्षिभ्रुवविभ्रमेङ्गितस्फुटामनिच्छां विवरीतुमुत्सुका । तदुक्तिमात्रश्रवणेच्छयाऽशृणोद्दिगीशसंदेशगिरं न गौरवात् ॥
तदर्पितामश्रुतवद्विधाय तां दिगीशसंदेशमयीं सरस्वतीम् । इदं तमुर्वीतलशीतलद्युतिं जगाद वैदर्भनरेन्द्रनन्दिनी ॥
मयाङ्ग ! पृष्टः कुलनामनी भवान् अमू विमुच्यैव किमन्यदुक्तवान् । न मह्यमत्रोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमर्णता ॥
अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती । क्वचित्प्रकाशां क्वचिदस्फुटार्णसं सरस्वतीं जेतुमनाः सरस्वतीम् ॥
गिरः श्रुता एव तव श्रवः सुधाः श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा । पिपासुता शान्तिमुपैति वारिजा न जातु दुग्धान्मधुनोऽधिकादपि ॥
बिभर्ति वंशः कतमस्तमोपहं भवादृशं नायकरत्नमीदृशम् । तमन्यसामान्यधियावमानितं त्वया महान्तं बहु मन्तुमुत्सहे ॥
इतीरयित्वा विरतां स तां पुनः गिरानुजग्राहतरां नराधिपः । विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥
अये ! ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने । गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता ॥
वृथा कथेयं मयि वर्णपद्धतिः कयानुपूर्व्या समकेति केति च । क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी ॥
यदि स्वभावान्मम नोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः । अथावदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ॥
इति प्रतीत्यैव मयावधीरिते तवापि निर्बन्धरसो न शोभते । हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि संप्रति ॥
तथापि निर्बन्धति ! तेऽथवा स्पृहाम् इहानुरुन्धे मितया न किं गिरा । हिमांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा ॥
महाजनावारपरम्परेदृशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनः जनः किलाचारमुचं विगायति ॥
अदोऽयमालप्य शिखीव शारदो बभूव तूष्णीमहितापकारकः । अथास्यरागस्य दधा पदे पदे वचांसि हंसीव विदर्भजाददे ॥
सुधांशुवंशाभरणं भवानिति श्रुतेऽपि नापैति विशेषसंशयः । कियत्सु मौनं वितता कियत्सु वाङ्महत्यहो वञ्चनचातुरी तव ॥
मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कर्णसुधामकुर्वते । परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा ॥
हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः प्रियागिरः सस्मितमाह स स्म ताम् । वदामि वामाक्षि ! परेषु मा क्षिप स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥
करोषि नेमं फलिनं मम श्रमं दिशोऽनुगृह्णासि न कंचन प्रभुम् । त्वमित्थमर्हासि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा ॥
सुरेषु संदेशयसीदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् । मदर्पिता दर्पकतापितेषु या प्रयाति दावार्दितदाववृष्टिताम् ॥
यथा यथेह त्वदुपेक्षयानया निमेषमप्येष जनो विलम्बते । रुषा शरव्यीकरणे दिवौकसां तथा तथाद्य त्वरते रतेः पतिः ॥
इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिर्न निर्ममौ । धिगस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न ॥
इदं निगद्य क्षितिभर्तरि स्थिते तयाभ्यधायि स्वगतं विदग्धया । अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये ॥
जलाधिपस्त्वामदिशन्मयि ध्रुवं परेतराजः प्रजिधाय स स्फुटम् । मरुत्वतैव प्रहितोऽसि निश्चितं नियोजितश्चोर्ध्वमुखेन तेजसा ॥
अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याभरणं किमप्यसौ । पुनस्तदाभाषणविभ्रमोन्मुखं मुखं विदर्भाधिपसंभवा दधौ ॥
वृथापरीहास इति प्रगल्भता न नेति च त्वादृशि वाग्विगर्हणा । भवत्यवज्ञा च भवत्यनुत्तरात् अतः प्रदित्सुः प्रतिवाचमस्मि ते ॥
कथं नु तेषां कृपयापि वागसावसावि मानुष्यकलाञ्छने जने । स्वभावभक्तिप्रवणं प्रतीश्वराः कया न वाचा मुदमुद्गिरन्ति वा ॥
अहो महेन्द्रस्य कथं मयौचिती सुराङ्गनासंगमशोभिताभृतः । ह्रदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥
पुरः सुरीणां भण केव मानवी न यत्र तास्तत्र तु शोभिकापि सा । अकाञ्चनेऽकिंचन नायिकाङ्गके किमारकूटाभरणेन न श्रियः ॥
यथा तथा नाम गिरः किरन्तु ते श्रुती पुनर्मे बधिरे तदक्षरे । पृषत्किशारी कुरुतामसंगतां कथं मनोवृत्तिमपि द्विपाधिपे ॥
अदो निगद्यैव नतास्यया तया श्रुतौ लगित्वाभिहितालिरालपत् । प्रविश्य यन्मे हृदयं ह्रियाह तद्विनिर्यदाकर्णय मन्मुखाध्वना ॥