Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 05

Canto 5

पञ्चमः सर्गः

Canto 5 of Naiṣadhīyacaritam.

Total: 135 Verses • Citations: NC 5.1–135 • 1 Lexicon Terms • Page 5 of 5 (Verses 15 shown)
NC 5.121 स्वागता
अब्रवीदथ यमस्तमहृष्टं वीरसेनकुलदीप ! तमस्त्वाम् । यत्किमप्यभिबुभूषति तत्किं चन्द्रवंशवसतेः सदृशं ते ॥
NC 5.122 स्वागता
रोहणः किमपि यः कठिनानां कामधेनुरपि या पशुरेव । नैनयोरपि वृथाऽभवदर्थी ही विधित्सुरसि वत्स ! किमेतत् ॥
NC 5.123 स्वागता
याचितश्चिरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः । शंसति द्विनयनी दृढनिद्रां द्राङ्गिमेषमिषघूर्णनपूर्णा ॥
NC 5.124 स्वागता
अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि । स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्धनसङ्घे ॥
NC 5.125 स्वागता
ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य । कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥
NC 5.126 स्वागता
चर्म वर्म किल यस्य न भेद्यं यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्णदधीची तन्न धर्ममवधीरय धीर ! ॥
NC 5.127 स्वागता
अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ । आस्थितावितथतागुणपाशः त्वादृशा स विदुषा दुरपासः ॥
NC 5.128 स्वागता
प्रेयसी जितसुधांशुमुखश्रीः या न मुञ्चति दिगन्तगतापि । भङ्गिसङ्गमकुरङ्गदृगर्थे कः कदर्थयति तामपि कीर्तिम् ॥
NC 5.129 स्वागता
यान्वरं प्रति परेऽर्थयितार स्तेऽपि यं वयमहो स पुनस्त्वम् । नैव नः खलु मनोरथमात्रं शूर ! पूरय दिशोऽपि यशोभिः ॥
NC 5.130 स्वागता
अर्थिता त्वयि गतेषु सुरेषु म्लानदानजनिजोरुयशः श्रीः । अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन विधत्तम् ॥
NC 5.131 द्रुतविलम्बितम्
प्रवसते भरतार्जुनवैन्यंवत्स्मृतिधृतोऽपि नल ! त्वमभीष्टदः । स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥
NC 5.132 शार्दूलविक्रीडितम्
इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् । त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥
NC 5.133 शार्दूलविक्रीडितम्
यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥
NC 5.134 स्रग्धरा
इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार । अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥
NC 5.135 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →