यावदागमयतेऽथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः । तावदेव ऋषिरिन्द्रदिदृक्षुः नारदस्त्रिदशधाम जगाम ॥
नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः । नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं विललङ्घे ॥
गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे । साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ॥
खण्डितेन्द्रभवनाद्यभिमानाल्लङ्घते स्म मुनिरेष विमानान् । अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥
तस्य तापनभिया तपनः स्वं तावदेव समकोचयदर्चिः । यावदेव दिवसेन शशीव द्रागतप्यत न तन्महसैव ॥
पर्यभूद्दिनमणिर्द्विजराजं यत्करैरहह तेन तदा तम् । पर्यभूत्खलु करैर्द्विजराजः कर्म कः स्वकृतमत्र न भुङ्क्ते ॥
विष्टरं तटकुशालिभिरद्धिः पाद्यमर्ध्यमथ कच्छरुहाभिः । पद्मवृन्दमधुभिर्मधुपर्कं स्वर्गसिन्धुरदितातिथयेऽस्मै ॥
स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप । संप्रतीर्य भवसिन्धुमनादिं ब्रह्म शर्मभरचारु यतीव ॥
अर्चनाभिरुचितोच्चतराभिः चारु तं सदकृतातिथिमिन्द्रः । यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय ॥
नामधेयसमतासखमद्रेरद्रिभिन्मुनिमथाद्रियत द्राक् । पर्वतोऽपि लभतां कथमर्चां न द्विजः स विबुधप्रभुलम्भी ॥
तद्भुजादतिवितीर्णसपर्याद्युद्रुमानपि विवेद मुनीन्द्रः । स्वः सहस्थितिसुशिक्षितया तान्दानपारमितयैव वदान्यान् ॥
मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् । आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः ॥
तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् । भूभृतां चिरमनागतिहेतुं ज्ञातुमिच्छुरवदच्छतमन्युः ॥
प्रागिव प्रसुवते नृपवंशाः किंनु संप्रति न वीरकरीरान् । ये परप्रहरणैः परिणामे विक्षताः क्षितितले निपतन्ति ॥
पार्थिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि । गौरवाद्वपुरपास्य भजन्ते मत्कृतामतिथिगौरवऋद्धिम् ॥
साभिशापमिव नातिथयस्ते मां यदद्य भगवन्नुपयन्ति । तेन न श्रियमिमां बहु मन्ये स्वोदरैकभृतिकार्यकदर्याम् ॥
पूर्वपुण्यविभवव्ययलब्धाः श्रीभरा विपद एव विमृष्टाः । पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥
तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् । भूयतां भगवतः श्रुतिसारैः अद्य वाग्भिरघमर्षणऋग्भिः ॥
इत्युदीर्य मघवा विनयर्धिं वर्धयन्नवहितत्वभरेण । चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥
वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि । नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरः सरमूचे ॥
भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ । तत्फले यदि परं तव हेला क्लेशलब्धमधिकादरदं तु ॥
संपदस्तव गिरामपि दूरा यन्न नाम विनयं विनयन्ते । श्रद्दधाति क इवेह न साक्षाद् आह चेदनुभवः परमाप्तः ॥
श्रीभरानतिथिसात्करवाणि स्वोपभोगपरता न हितेति । पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्टिरधिका तव कापि ॥
आः स्वभावमधुरैरनुभावैः तावकैरतितरां तरलाः स्मः । द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व बिडौजः ॥
संख्यविक्षततनुस्रवदस्रक्षालिताखिलनिजाघलघूनाम् । यत्त्विहानुपगमः शृणु राज्ञां तज्जगद्युवमुदं तमुदन्तम् ॥
सा भुवः किमपि रत्नमनर्घे भूषणं जयति तत्र कुमारी । भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥
संप्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती । आशिखं सुकृतसारभृते सा क्वापि यूनि भजते किल भावम् ॥
कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः । अर्धवर्त्मनि रुणत्सि न पृच्छां निर्गमेण न परिश्रमयैनाम् ॥
यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् । बालया निजमनः परमाणौ ह्रीदरीशयहरीकृतमेनम् ॥
सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभरङ्गैः । तातचित्तमपि धातुरधत्त स्वस्वयंवरमहाय सहायम् ॥