Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 04

Canto 4

चतुर्थः सर्गः

Canto 4 of Naiṣadhīyacaritam.

Total: 123 Verses • Citations: NC 4.1–123 • 1 Lexicon Terms • Page 1 of 5 (Verses 30 shown)
NC 4.1 द्रुतविलम्बितम्
अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशः कुसुमं धनुः । श्रुतिपथोपगतं सुमनस्तया तमिषुमाशु विधाय जिगाय ताम् ॥
NC 4.2 द्रुतविलम्बितम्
यदतनुज्वरभाक्तनुते स्म सा प्रियकथासरसीरसमज्जनम् । सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा समपद्यत ॥
NC 4.3 द्रुतविलम्बित
ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतवेगतः । स्थितिविरोधकरीं द्व्यणुकोदरी तदुदितः स हि यो यदनन्तरः
NC 4.4 द्रुतविलम्बितम्
अतितमां समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् । अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः ॥
NC 4.5 द्रुतविलम्बितम्
किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् । तदभिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥
NC 4.6 द्रुतविलम्बित
कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् । अहरहर्वहदभ्यधिकाधिकां रविरुचिग्लपितस्य विधोर्विधाम् ॥
NC 4.7 द्रुतविलम्बितम्
तरुणतातरणिद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तदा । अनलसंगतितापमुपैतु नो कुसुमचापकुलालविलासजम् ॥
NC 4.8 द्रुतविलम्बित
अधृत यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा । स्पृशति तत्कदनं कदलीतरुः यदि मरूज्वलदूषरदूषितः ॥
NC 4.9 द्रुतविलम्बित
स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म दमस्वसुः । अनपिधानपतत्तपनातपं तपनिपीतसरःसरसीरुहम् ॥
NC 4.10 द्रुतविलम्बित
मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तम=पराधमधात्प्रतिबध्नती ॥
NC 4.11 द्रुतविलम्बित
निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम् । मृदुतनोर्वितनोतु कथं न ताम् अवनिभृत्तु निविश्य हृदि स्थितः ॥
NC 4.12 द्रुतविलम्बितम्
मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोः अपि न संमुखवास्तुनि वस्तुनि ॥
NC 4.13 द्रुतविलम्बितम्
हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः । हृदयभाजमराजत चुम्बितुं नलमुपेत्य किलागमि तन्मुखम् ॥
NC 4.14 द्रुतविलम्बितम्
सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः । अकलि निःश्वसितेन विनिर्गमानुमितनिह्नुतवेशनमायिता ॥
NC 4.15 द्रुतविलम्बितम्
विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः । दश दिशः खलु तद्दृगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥
NC 4.16 द्रुतविलम्बितम्
स्मरकृतां हृदयस्य मुहुर्दशां बहु वदन्निव निःश्वसितानिलः । व्यधित वाससि कम्पमदः श्रिते त्रसति कः सति नाश्रयबाधने ॥
NC 4.17 द्रुतविलम्बितम्
करपदाननलोचननामभिः शदतलैः सुतनोर्विरहज्वरे । रविमहो बहुपीतचरं चिराद् अनिशतापमिषादुदसृज्यत ॥
NC 4.18 द्रुतविलम्बितम्
उदयति स्म तदद्भुतमालिभिः धरणिभृद्भुवि तत्र विमृश्य यत् । अनुमितोऽपि च बाष्पनिरीक्षणाद्द्व्यविभिचचार न तापकरो नलः ॥
NC 4.19 द्रुतविलम्बितम्
हृदि विदर्भभुवः प्रहरञ्शरै रतिपतिर्निषधाधिपतेः कृते । कृततदन्तरगस्वदृढव्यधैः फलदनीतिरमूर्च्छदलं खलु ॥
NC 4.20 द्रुतविलम्बितम्
विधुरमानि तया यदि भानुमान्कथमहो स तु तद्धृदयं तथा । अपि वियोगभरास्फुटनस्फुटीकृतदृषत्त्वमजिज्वलदंशुभिः ॥
NC 4.21 द्रुतविलम्बित
हृदयदत्तसरोरुहया तया क्व सदृगस्तु वियोगनिमग्नया । प्रियधनुः परिरभ्य हृदा रतिः किमनुमर्तुमशेत चितार्चिषि ॥
NC 4.22 द्रुतविलम्बितम्
अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यमबुध्यत । प्रशमनाय विधाय तृणान्यसूञ्ज्वलति तत्र यदुज्झितुमैहत ॥
NC 4.23 द्रुतविलम्बितम्
प्रकृतिरेतु गुणः स न योषितां कथमिमां हृदयं मृदु नाम यत् । तदिषुभिः कुसुमैरपि दुन्वता सुविवृतं विबुधेन मनोभुवा ॥
NC 4.24 द्रुतविलम्बितम्
रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नु ताम् । इतरथात्मनिवारणशङ्कया ज्वरयितुं विशवेशधराविशत् ॥
NC 4.25 द्रुतविलम्बितम्
हृदि विदर्भभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् । मुखदृगोष्ठमरोपि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः ॥
NC 4.26 द्रुतविलम्बितम्
विरहपाण्डुकपोलतले विधुः व्यधित भीमभुवः प्रतिबिम्बितः । अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात् ॥
NC 4.27 द्रुतविलम्बितम्
विरहतापिनि चन्दनपांशुभिः वपुषि सार्पितपाण्डिममण्डना । विषधराभबिसाभरणा दधे रतिपतिं प्रति शंभुविभीषिकाम् ॥
NC 4.28 द्रुतविलम्बितम्
विनिहितं परितापिनि चन्दनं हृदि तया धृतबुद्बुदमाबभौ । उपनमन्सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥
NC 4.29 द्रुतविलम्बितम्
स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् । श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्झितम् ॥
NC 4.30 द्रुतविलम्बित
प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति । जगदतुर्निहिते हृदि नीरजे दवधुकुड्मलनेन पृथुस्तनीम् ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →