त्वदितरो न हृदापि मया धृतः पतिरितीव नलं हृदयेशयम् । स्मरहविर्भुजि बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम् ॥
विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः । किमपनेतुमचेष्टत किं पराभवितुमैहत तद्दवथुं पृथुम् ॥
इयमनङ्गशरावलिपन्नगक्षतविसारिवियोगविषावशा । शशिकलेव खरांशुकरार्दिता करुणनीरनिधौ निदधौ न कम् ॥
ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमृणाललतार्पिता । स्वजयिनोस्त्रपया सविधस्थयोः मलिनतामभजद्भुजयोर्भृशम् ॥
पिकलतेश्रुतिकम्पिनि शैवलं हृदि तया निहितं विचलद्बभौ । सतततद्गतहृच्छयकेतुना हृतमिव स्वतनूघनघर्षिणा ॥
न खलु मोहवशेन तदाननं नलमनः शशिकान्तमबोधि तत् । इतरथा शशिनोऽभ्युदये ततः कथमसुस्रुवदश्रुमयं पयः ॥
रतिपतेर्विजयास्त्रमिषुर्यथा जयति भीमसुतापि तथैव सा । स्वविशिखानिव पञ्चतया ततो नियतमैहत योजयितुं स ताम् ॥
शशिमयं दहनास्त्रमुदित्वरं मनसिजस्य विमृश्य वियोगिनी । झटिति वारुणमश्रुमिषादसौ तदुचितं प्रतिशस्त्रमुपाददे ॥
अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा । उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रममुञ्चदमुं प्रति ॥
रतिपतिग्रहितानिलहेतितां प्रतियती सुदती मलयानिले । तदुरुतापभयात्तमृणालिकामयमियं भुजगास्त्रमिवादित ॥
न्यधित तद्धृदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् । किमथ तत्र निहत्य निखातवान्रतिपतिः स्तनबिल्वयुगेन तत् ॥
अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वरशरव्ययात् । स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥
अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुंतुदया च तया मुहुः । पतितया स्मरतापमये गदे निजगदेऽश्रुविमिश्रमुखी सखी ॥
नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा । विरहिणामपि तद्गतवद्युवक्षणमितं न कथं गणितागमे ॥
जनुरधत्त सती स्मरतापिता हिमवतो न तु तन्महिमादृता । ज्वलति भालतले लिखितः सतीविरह एव हरस्य न लोचनम् ॥
दहनजा न पृथुर्दवथुव्यथा विरहजैव पृथुर्यदि नेदृशम् । दहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्धुराः ॥
हृदि लुठन्ति कला नितराममूर्विरहिणीवधपङ्ककलङ्किताः । कुमुदसख्यकृतस्तु बहिष्कृताः सखि ! विलोकय दुर्विनयं विधोः ॥
अयि ! विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता । ग्लपितशंभुगलाद्गरलात्त्वया किमु दधौ जड ! वा वडवानलात् ॥
अयमयोगिवधूवधपातकैः भ्रमिमवाप्य दिवः खलु पात्यते । शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥
त्वमभिधेहि विधुं सखि ! मद्गिरा किमिदमीदृगधिक्रियते त्वया । न गणितं यदि जन्म पयोनिधौ हरशिरःस्थितिभूरपि विस्मृता ॥
निपततापि न मन्दरभूभृता त्वमुदधौ शशलाच्छन ! चूर्णितः । अपि मुनेर्जठरार्चिषि जीर्णतां वत गतोऽसि न पीतपयोनिधेः ॥
किमसुभिर्ग्लपितैर्जड ! मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥
मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना । अपि गृहाण वधूवधपौरुषं हरिणलाञ्छन ! मुञ्च कदर्थनाम् ॥
निशि शशिन् ! भज कैतवभानुतामसति भास्वति तापय पाप ! माम् । अहमहन्यवलोकयितास्मि ते पुनः अहर्पतिनिह्नुतदर्पताम् ॥
शशकलङ्क ! भयंकर ! मादृशां ज्वलसि यन्निशि भूतपतिं श्रितः । तदमृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी ॥
श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि ! निक्षिप । किमपि तुन्दिलितः स्थगयत्यमुं सपदि तेन तदुच्छ्वसिमि क्षणम् ॥
असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः । पुनरुपैति निरुध्यनिवास्यते सखि ! मुखं न विधोः पुनरीक्ष्यते ॥
अयि ! ममैष चकोरशिशुर्मुनेः व्रजति सिन्धुपिबस्य न शिष्यताम् । अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥
कुरु करे गुरुमेकमयोघनं बहिरतो मुकुरं च कुरुष्व मे । विशति तत्र यदैव विधुस्तदा सखि ! सुखादहितं जहि तं द्रुतम् ॥
उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः । विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥