Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 16

Canto 16

षोडशः सर्गः

Canto 16 of Naiṣadhīyacaritam.

Total: 131 Verses • Citations: NC 16.1–131 • 1 Lexicon Terms • Page 5 of 5 (Verses 11 shown)
NC 16.121 वंशस्थम्
तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया । विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः ॥
NC 16.122 वंशस्थम्
मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् । ददर्श पश्यामिव नैषधः प्रियामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः ॥
NC 16.123 वंशस्थम्
पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः । ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥
NC 16.124 पुष्पिताग्रा
अथ नगरधृतैरमात्यरत्नैःपथि समियाय स जाययाभिरामः । मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥
NC 16.125 पुष्पिताग्रा
कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु । कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥
NC 16.126 मालिनी
अथ पथि पथि लाजैरात्मनो बाहुवल्लीमुकुलकुलसकुल्यैः पूजयन्त्यो जयेति । क्षितिपतिमुपनेमुस्तं दधाना जनानाममृतजलमृणालीसौकुमार्यं कुमार्यः ॥
NC 16.127 मालिनी
अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन । निखिलनगरसौधाट्टावलीचन्द्रशालाः क्षाणमिव निजसंज्ञांसान्वयामन्वभूवन् ॥
NC 16.128 मालिनी
निषधनृपमुखेन्दुश्रीसुधां सौधवातायनविवरगरश्मिश्रेणिनालोपनीताम् । पपुरसमपिपासापांसुलत्वोत्परागाण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥
NC 16.129 मालिनी
अवनिपतिपथाट्टस्त्रैणपाणिप्रवालस्खलितसुरभिलाजव्याजभाजःप्रतीच्छन् । उपरि कुसुमवृष्टीरेष वैमानिकानामभिनवकृतभैमीसौधभूमिं विवेश ॥
NC 16.130 मालिनी
इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस्तत् । दिवि दिविषदधीशाःकौतुकेनावलोक्य प्रणिदधुरिवगन्तुं नाकमानन्दसान्द्राः ॥
NC 16.131 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महाकाव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →