वृतः प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः । पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥
विभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः । मृगेक्षणानां समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥
परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि । दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥
नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया । अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसंपदा ॥
विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः । दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्योपचिकाय तच्चयः ॥
हरिद्विपद्वीपिभिरांशुकैर्नभोनभस्वदाध्मापनपीनितैरभूत् । तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनाम्बरवल्लिवेल्लिवेल्लितम् ॥
भुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः । ददर्श दूतीमिव भीमजन्मनह्स तत्प्रतीहारमहीं महीपतिः ॥
श्लथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा । प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतप्रश्निततूर्यनिःस्वना ॥
विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः । अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्गमः ॥
निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृतार्हणम् । विनीतमा द्वारत एव पद्गतां गतं तमैक्षिष्ट मुदा विदर्भराट् ॥
अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः । सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः ॥
यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः । शिवामथ स्वस्य शिवाय नन्दनां ददे पतिः सर्वविदे महीभृताम् ॥
असिस्वदद्यन्मधुपर्कमर्पितं स तद्व्यधात्तर्कमुदर्कदर्शिने । यदेष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदाकृत ॥
वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः । सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः ॥
विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल । विशङ्क्य सूत्रं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः ॥
सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः । ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् ॥
बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् । बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥
असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म ददाति भासुरम् । ददे हि तस्मै धवनामधारिणे स शंभुसंभोगनिमग्नयानया ॥
अधारि यः प्राङ्नहिषासुरद्विषा कृपाणमस्मै तमदत्त कूकुदः । अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन पराङ्गदारणः ॥
उवाह यः सान्द्रतराङ्गकाननः स्वशौर्यसूर्योदयपर्वतव्रतम्। सनिर्झरः शाणनधौतधारया समूढसंध्यः क्षतशत्रुजासृजा ॥
यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् । स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥
यदङ्गभूमी बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले । रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥
पुरैव तस्मिन्समदेशि तत्सुताभिकेन यः सौहृदनाटिनाग्निना । नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम् ॥
प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् । कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते ॥
महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम् । स तद्ददेऽस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥
जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय ददे मुदं न यः । ददद्दिदृक्षादरदासतां यथा तयैव तत्पांसुलकण्ठनालताम् ॥
दिवस्पतेरादरदर्शिनादरादढौकि यस्तं प्रति विश्वकर्मणा । तमेकमाणिक्यमयं महोन्नतं पतद्ग्रहं ग्राहितवान्नलेन सः ॥
नलेन ताम्बूलविलासितोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा । इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणचारुणश्चिरात् ॥
मयेन भीमं भगवन्तमर्चता नृपेति पूजा प्रभुनाम्नि या कृता । अदत्त भीमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनम्महत् ॥
छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं विसर्पति । न नीलकण्ठत्वमधास्यदत्र चेत्स कालकूटं भगवानभोक्ष्यत ॥