अथोपकार्या निषधावनीपतिः निजामयासीद्वरणस्रजाञ्चितः । वसूनि वर्षन्सुबहूनि बन्दिनां विशिष्यभैमीगुणकीर्तनाकृताम् ॥
तथा पथि त्यागमयं वितीर्णवान्यथातिभाराधिगमेन मागधैः । तृणीकृतं रत्ननिकाय मुच्चकैः चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥
त्रपास्य न स्यात्सदसि स्त्रियान्वयात्कुतोऽतिरूपः सुखभाजनं जनः । अमूदृशी तत्कविबन्दिवर्णनैः अवाक्कृता राजकरञ्जिलोकवाक् ॥
अदोषतामेव सतां विवृण्वते द्विषां मृषादोषकणाधिरोपणाः । न जातु सत्ये सति दूषाणे भवेदलीकमाधातुमवद्यमुद्यमः ॥
विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्नवरोधमात्मनः । शशंस देवीमनुजातसंशयां प्रतीच्छ जामातरमुत्सुके नलम् ॥
तनुत्विषा यस्य तृणं स मन्मथः कुलश्रिया यः पवितास्मदन्वयम् । जगत्त्रयीनायकमेलके वरं सुतां परं वेद विवेक्तुमीदृशम् ॥
सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः स्त्रीसमयस्पृशः क्रियाः । श्रृतिस्मृतीनां तु वयं विदध्महे विधीनिति स्माह च निर्ययौ च सः ॥
निरीय भूपेन निरीक्षितानना शशंस मौहूर्तिकसंसदंशकम् । गुणैररीणैरुदयास्तनिस्तुषां तदा स दातुं तनयां प्रचक्रमे ॥
अथावदद्दूतमुखः स नैषधं कुलं च बाला च ममानुकम्प्यताम् । स पल्लवत्वद्य मनोरथाङ्क्रुरश्चिरेण नस्त्वच्चरणोदकैरिति ॥
तथोत्थितं भीमवचःप्रतिध्वनिं निपीय दूतस्य स वक्त्रगह्वरात् । व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन्प्रदाय प्रजिघाय तं बहु ॥
निपीतदूतालपितस्ततो नलं विदर्भभर्तागमयांबभूव सः । निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः ॥
क्वचित्तदालेपनदानपण्डिता कमप्यहंकारमगात्पुरस्कृता । अलम्भि तुङ्गासनसंनिवेशनादपूपनिर्माणविदग्धयादरः ॥
मुखानि मुक्तामणितोरणोद्गतैर्मरीचिभिः पान्थविलासमाश्रितैः । पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि रेजिरे ॥
पथामनीयन्त तथाधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः । वितानतामातपनिर्भयास्तदा पटच्छिदाकालिकपुष्पजाः स्रजः ॥
विभूषणैः कञ्चुकिता बभुः प्रजा विचित्रचित्रैः स्नपितत्विषो गृहाः । बभूव तस्मिन्मणिकुट्टिमैः पुरे वपुः स्वमुर्व्याः परिवर्तितोपमम् ॥
तदा निसस्वानतमां घनं घनं ननाद तस्मिन्नितरां ततं ततम् । अवापुरुच्चैः सुषिराणि राणिताम् अमानमानद्धमियत्तयाध्वनीत् ॥
विपञ्चिराच्छादि न वेणुभिर्न ते प्रणीतगीतैर्न च तेऽपि झर्झरैः । न ते हुहुक्केन न सोऽपि ढक्कया न मर्दलैः सापि न तेऽपि ढक्कया ॥
विचित्रवादित्रनिनादमूर्च्छितः सुदूरचारी जनतामुखारवः । ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः ॥
उदस्य कुम्भीरथ शातकुम्भजाः चतुष्कचारुत्विषि वेदिकोदरे । यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयांबभूव ताम् ॥
विजित्य दास्यादिव वारिहारिताम् अवापितास्तत्कुचयोर्द्वयेन ताः । शिखामवाक्षुः सहकारशाखिनस्त्रपाभरम्लानिमिवानतैर्मुखैः ॥
असौ मुहुर्जातजलाभिषेचना क्रमाद्दुकूलेन सितांशुनोज्ज्वला । द्वयस्य वर्षाशरदां तदातनीं सनाभितां साधु बबन्ध संध्यया ॥
पुरा प्रभिन्नाम्बुददुर्दिनीकृतां निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् । शिरोरुहौघेण घनेन वर्षता क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥
विरेजिरे तच्चिकुरोत्कराः किराः क्षाणं गलन्निर्मलवारिविप्रुषाम् । तमःसुहृच्चामरनिर्जयार्जिताः सिता वमन्तः खलु कीर्तिमुक्तिकाः ॥
म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्ज्वलीकृताः । अदभ्रमभ्राजत साश्मशाणनात्प्रकाशरोचिःप्रतिमेव हेमजा ॥
तदा तदङ्गस्य बिभर्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः । दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि ॥
अवापितायाः शुचिवेदिकान्तरं कलासु तस्याः सकलासु पण्डिताः । क्षणेन सख्यश्चिरशिक्षणैः स्फुटं प्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥
विनापि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिरदर्शि चाधिका । न भूषयैषाधिचकास्ति किं तु सा नयेति कस्यास्तु विचारचातुरी विधाय ॥
विधाय बन्धूकपयोजपूजने कृतां विधोर्गन्धफलीबलिश्रियम् । निनिन्द लब्धाधरलोचनार्चनं मनःशिलाचित्रकमेत्य तन्मुखम् ॥
महीमधोनां मदनान्धतातमीतमःपटारम्भणतन्तुसंततिः । अबन्धि तन्मूर्धजपाशमञ्जरी कयापि धूपग्रहधूमकोमला ॥
पुनःपुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् । सखी स्मितैस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धजचामरं चिरात् ॥