Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 15

Canto 15

पञ्चदशः सर्गः

Canto 15 of Naiṣadhīyacaritam.

Total: 93 Verses • Citations: NC 15.1–93 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
NC 15.61 वंशस्थम्
नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः परिधिर्विधोर्बभौ । तदा शशाङ्काधिकरूपतां गते तदानने मातुमशक्नुवन्निव ॥
NC 15.62 वंशस्थम्
बभूव भैम्याः खलु मानसौकसं जिघांसतो धैर्यभरं मनोभुवः । उपभ्रु तद्वर्तुलचित्ररूपिणी धनुःसमीपे गुलिकेव संभृता ॥
NC 15.63 वंशस्थम्
अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना । श्रियं श्रिता काचन तारकासखी कृता शशाङ्कस्य तयाङ्कवर्तिनी ॥
NC 15.64 वंशस्थम्
न यावदग्निभ्रममेत्युदूढतां नलस्य भैमीति हरेर्दुराशया । स बिन्दुरिन्दुः प्रहितः किमस्य सा न वेति भाले पठितुं लिपीमिव ॥
NC 15.65 वंशस्थम्
कपोलपालीजनिजानुबिम्बयोः समागमात्कुण्डलमण्डलद्वयी । नलस्य तत्कालमवाप चित्तभूः अथ स्फुरच्चक्रचतुष्कचारुताम् ॥
NC 15.66 वंशस्थम्
श्रितास्य कण्ठं गुरुविप्रवन्दनाद्विनम्रमोलेश्चिबुकाग्रचुम्बिनी । अवाप मुक्तावलिरास्यचन्द्रमः स्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥
NC 15.67 वंशस्थम्
यतोऽजनि श्रीर्बलवान्बलं द्विषन्बभूव यस्याजिषु वारणेन सः । अपूपुरत्तान्कमलार्थिनो घनान्समुद्रभावं स बभार तद्भुजः ॥
NC 15.68 वंशस्थम्
कृतार्थयन्नर्थिजनाननारतं बभूव तस्यामरभूरुहः करः । तदीयमूले निहितं द्वितीयवद्द्ध्रुवं दधे कङ्कणमालवालताम् ॥
NC 15.69 वंशस्थम्
रराज दोर्मण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः । मिषेण वर्षन्दशदिङ्मुखोन्मुखौ यशःप्रतापाववनीजयार्जितौ ॥
NC 15.70 वंशस्थम्
घने समस्तापघनावलम्बिनां विभूषणानां मणिमण्डले नलः । स्वरूपरेखामवलोक्य निष्फलीचकार सेवाचणदर्पणार्पणाम् ॥
NC 15.71 वंशस्थम्
व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणाऋपणाद्युतिः । अदर्शि विस्फारितरत्नलोचनैः परस्परेणेव विभूषणैरपि ॥
NC 15.72 वंशस्थम्
ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षितारिक्षितिभृज्जयद्रथः । नृपः पृथासूनुरिवाधिरूढवान्स जन्ययात्रामुदितः किरीटवान् ॥
NC 15.73 वंशस्थम्
विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्ज्वलम् । गृहाद्गृहादेत्य धृतप्रसाधना व्यराजयन्राजपथानथाधिकम् ॥
NC 15.74 वंशस्थम्
अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् । कुचेन तस्मै चलतेऽकरोत्पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥
NC 15.75 वंशस्थम्
सखीं नलं दर्शयमानयाङ्कतो जवादुदस्तस्य करस्य कङ्कणे । विषज्य हारैस्त्रुटितैरतर्कितैः कृतं कयापि क्षणलाजमोक्षणम् ॥
NC 15.76 वंशस्थम्
लसन्नखादर्शमुखाम्बुजस्मितप्रसूनवाणीमधुपाणिपल्लवम् । यियासतस्तस्य नृपस्य जज्ञिरे प्रशस्तवस्तूनि तदेवयौवतम् ॥
NC 15.77 वंशस्थम्
करस्थताम्बूलजिघत्सुरेकिका विलोकनैकाग्रविलोचनोत्पला । मुखे निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी ॥
NC 15.78 वंशस्थम्
कयापि वीक्षाविमनस्कलोचने समाज एवोपपतेः समीयुषः । घनं सविघ्नं परिरम्भसाहसैः तदा तदालोकनमन्वभूयत ॥
NC 15.79 वंशस्थम्
दिदृक्षुरन्या विनिमेषावीक्षणां नृणामयोग्यां दधती तनुश्रियम् । पदाग्रमात्रेण यदस्पृशन्महीं न तावता केवलमप्सरोऽभवत् ॥
NC 15.80 वंशस्थम्
विभूषणस्रंसनशंसनार्पितैः करप्रहारैरपि धूननैरपि । अमान्तमन्तः प्रसभं पुराऽपरा सखीषु संमापयतीव संमदम् ॥
NC 15.81 वंशस्थम्
वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः । अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीदृशाम् ॥
NC 15.82 स्रग्धरा
काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तास्वशङ्कन्त कान्ता मौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् । साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥
NC 15.83 शिखरिणी
भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननी तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा । हरारब्धक्रोधेन्धनमदनसिंहासनमसावलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥
NC 15.84 शार्दूलविक्रीडितम्
अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया । अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा जाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥
NC 15.85 शार्दूलविक्रीडितम्
अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् । व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥
NC 15.86 शार्दूलविक्रीडितम्
मा जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसीं सेयं भद्रमचीकरन्मघवता न स्वां द्वितीयां शचीम् । कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यतामेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥
NC 15.87 शार्दूलविक्रीडितम्
वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया नेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः । गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया योगं भीमजयानुभूय भजतामद्वैतमद्य त्विषाम् ॥
NC 15.88 शार्दूलविक्रीडितम्
स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभूदभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये । आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडयाप्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥
NC 15.89 शार्दूलविक्रीडितम्
ताभिर्दृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महे यदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः । सा स्त्रीराट्पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैः सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥
NC 15.90 शार्दूलविक्रीडितम्
वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिलक्षोणीचक्रशतक्रतौ निजगदे तद्बृत्तवृत्तक्रमैः । किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकं देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →