Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 11

Canto 11

एकादशः सर्गः

Canto 11 of Naiṣadhīyacaritam.

Total: 130 Verses • Citations: NC 11.1–130 • 1 Lexicon Terms • Page 2 of 5 (Verses 30 shown)
NC 11.31 वसन्ततिलका
न श्वेततां चरतु वा भुवनेषु राजहंसस्य न प्रियतमा कथमस्य कीर्तिः । चित्रं तु यद्विशदिमाद्वयमाविशन्ती क्षीरं च नाम्बु च मिथः पृथगातनोति ॥
NC 11.32 वसन्ततिलका
शूरेऽपि सूरिपरिषत्प्रथमाऋचितेऽपि शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि । तस्मिन्नवद्यमियमाप तदेव नाम यत्कोमलं न किल तस्य नलेति नाम ॥
NC 11.33 वसन्ततिलका
भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा लिङ्गं चकार तदनादरणस्य विज्ञा । राज्ञोऽपि तस्य तदलाभजतापवह्निः चिह्नीबभूव मलिनच्छविभूमधूमः ॥
NC 11.34 वसन्ततिलका
राजान्तराभिमुखमिन्दुमुखीमथैनां जन्या जनीं हृदयवेदितयैव निन्युः । अन्यानपेक्षितविधौ न खलु प्रधानवाचां भवत्यवसरः सति भव्यभृत्ये ॥
NC 11.35 वसन्ततिलका
ऊचे पुनर्भगवती नृपमन्यमस्यै निर्दिश्य दृश्यतमतावमताश्विनेयम् । आलोक्यतामयमये कुलशीलशाली शालीनतानतमुदस्य निजास्यबिम्बम् ॥
NC 11.36 वसन्ततिलका
एतत्पुरःपठदपश्रमबन्दिवृन्दवाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् । उत्पत्तुमस्ति पदमेव न मत्पदानाम् अर्थोऽपि नाऋथपुनरुक्तिषु पातुकानाम् ॥
NC 11.37 वसन्ततिलका
नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्या । एतद्भुजाबिरुदबन्दिजयानयापि किं रागि राजनि गिराजनि नान्तरं ते ॥
NC 11.38 वसन्ततिलका
शाकः शुकच्छदसमच्छविपत्त्रमालभारी हरिष्यति तरुस्तव तत्र चित्तम् । यत्पल्लवौघपरिरम्भविजृम्भितेन ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥
NC 11.39 वसन्ततिलका
स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मा यन्मारुतः कमपि संमदमादधाति । कौतूहलं तदनुभूय विधेहि भूयः श्रद्धां पराशरपुराणकथान्तरेऽपि ॥
NC 11.40 वसन्ततिलका
क्षीरार्णवस्तवकटाक्षरुचिच्छटानाम् अन्वेतु तत्र विकटायितमायताक्षि । वेलावनीवनततिप्रतिबिम्बचुम्बीकिर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥
NC 11.41 वसन्ततिलका
कल्लोलजालचलनोपनतेन पीवा जीवातुनानवरतेन पयोरसेन । अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिः अध्यास्यते मधुभिदा भुजगाधिराजः ॥
NC 11.42 वसन्ततिलका
त्वद्रूपसंपदवलोकनजातशङ्का पादाब्जयोरिह कराङ्गुलिलालनेन । भूयाच्चिराय कमला कलितावधाना निद्रानुबन्धमनुरोधयितुं धवस्य ॥
NC 11.43 वसन्ततिलका
बालातपैः कृतकगैरिकतां कृतां द्विः तत्रोदयाचलशिलाः परिशीलयन्तु । त्वद्विभ्रमभ्रमणजश्रमवारिधारिपादाङ्गुलीगलितया नखलाक्षयापि ॥
NC 11.44 वसन्ततिलका
नॄणां करम्बितमुदामुदयन्मृगाङ्कशङ्कां सृजत्वनघजङ्घि परिभ्रमन्त्याः । तत्रोदयाद्रिशिखरे तव दृश्यमास्यं कश्मीरसंभवसमारचनाभिरामम् ॥
NC 11.45 वसन्ततिलका
एतेन ते विरहपावकमेत्य तावत्कामं स्वनाम कलितान्वयमन्वभावि । अङ्गीकरोषि यदि तत्तव नन्दनाद्यैः लब्धान्वयं स्वमपि नन्वयमातनोतु ॥
NC 11.46 वसन्ततिलका
लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि । सामुत्र दूषणमजीगणदेकमेव नार्थी बभूव मघवा यदमुष्य देवः ॥
NC 11.47 वसन्ततिलका
लक्ष्मीविलासवसतेः सुमनःसु मुख्यात् अस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् । स्थानान्तरं तदनु निन्युरिमां विमानवाहाः पुनः सुरभितामिव गन्धवाहाः ॥
NC 11.48 वसन्ततिलका
भूयस्ततो निखिलवाङ्मयदेवता सा हेमोपमेयतनुभा समभाषतैनाम् । एतं स्वबाहुबहुवारनिवारितारिं चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥
NC 11.49 वसन्ततिलका
द्वीपस्य पश्य दयितं द्युतिमन्तमेतं क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण । यन्मण्डले स परिमण्डलसंनिवेशः पाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥
NC 11.50 वसन्ततिलका
तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची क्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् । हंसावली कलकलप्रतिनादवाग्भिः स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥
NC 11.51 वसन्ततिलका
वैदर्भि दर्भदलपूजनयापि यस्य गर्भे जनः पुनरुदेति न जातु मातुः । तस्यार्चनां रचय तत्र मृगाङ्कमौलेः तन्मात्रदैवतजनाभिजनः स देशः ॥
NC 11.52 वसन्ततिलका
चूडाग्रचुम्बिमिहिरोदयशैलशीलः तेनाः स्तनंधयसुधाकरशेखरस्य । तस्मिन्सुवर्णरसभूषणरम्यहर्म्यभूभृद्धटा घटय हेमघटावतंसाः ॥
NC 11.53 वसन्ततिलका
तस्मिन्मलिम्लुच इव स्मरकेलिजन्मघर्मोदबिन्दुमययौक्तिकमण्डनं ते । जालैर्मिलन्दधिमहोदधिपूरलोलकल्लोलचामरमरुत्तरुणि च्छिनत्तु ॥
NC 11.54 वसन्ततिलका
एतद्यशो नवनवं खलु हंसवेषं वेशन्तसंतरणदूरगमक्रमेण । अभ्यासमर्जयति संतरितुं समुद्रान्गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥
NC 11.55 वसन्ततिलका
तस्मिन्गुणैरपि भृते गणनादरिद्रैः तन्वी न सा हृदयबन्धमवाप भूपे । दैवे निरुन्धति निबन्धनतां वहन्ति हन्त प्रयासपरुषाणि न पौरुषाणि ॥
NC 11.56 वसन्ततिलका
ते निन्यिरे नृपतिमन्यमिमाममुष्माद् अंसावतंसशिबिकांशभृतः पुमांसः । रत्नाकरादिव तुषारमयूखलेखां लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥
NC 11.57 वसन्ततिलका
एकैकमद्भुतगुणं धुतदूषणं च हित्वान्यमन्यमुपगत्य परित्यजन्तीम् । एनां जगाद जगदञ्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥
NC 11.58 वसन्ततिलका
ईशः कुशेशयसनाभिशये कुशेन द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते । ज्योतिष्मता सममनेन वनीघनासु तत्त्वं विनोदय घृतोदतटीषु चेतः ॥
NC 11.59 वसन्ततिलका
वातोर्मिदोलनचलद्दलमण्डलाग्रभिन्नाभ्रमण्डलगलज्जलजातसेकः । स्तम्बः कुशस्य भविताम्बरचुम्बिचूडः चित्राय तत्र तव नेत्रनिपीयमानः ॥
NC 11.60 वसन्ततिलका
पाथोधिमाथसमयोत्थितसिन्धुपुत्रीपत्पङ्कजार्पणपवित्रशिलासु तत्र । पत्या सहावह विहारमयैर्विलासैः आनन्दमिन्दुमुखि मन्दरकन्दरासु ॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →