Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 99

Ādiparva Adhyāya 99

आदिपर्व • अध्यायः 99

Ādiparva Adhyāya 99 of the classical Mahābhārata with 50 verses.

Total: 50 Verses • Citations: MBh 1.99.1–50 • 250 Lexicon Terms • Page 2 of 2 (Verses 20 shown)
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥
अयं शांतनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥
स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ॥
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ॥
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् । धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् ॥
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥
← Previous (Ch. 98) Full Table of Contents Next (Ch. 100) →