Skip to main content
Search
MBh
Mahābhārata • Parva 5 (Udyogaparva) • Adhyāya 61

Udyogaparva Adhyāya 61

उद्योगपर्व • अध्यायः 61

Udyogaparva Adhyāya 61 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 5.61.1–19 • 250 Lexicon Terms
तथा तु पृच्छन्तमतीव पार्था;न्वैचित्रवीर्यं तमचिन्तयित्वा । उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् ॥
मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात् । विज्ञाय तेनास्मि तदैवमुक्त;स्तवान्तकालेऽप्रतिभास्यतीति ॥
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः । शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ॥
प्रसादितं ह्यस्य मया मनोऽभू;च्छुश्रूषया स्वेन च पौरुषेण । ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ॥
निमेषमात्रं तमृषिप्रसाद;मवाप्य पाञ्चालकरूषमत्स्यान् । निहत्य पार्थांश्च सपुत्रपौत्राँ;ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः । यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ॥
एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे । न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ॥
यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन । श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन ॥
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः । भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ॥
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात् । स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् ॥
बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः । यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे ॥
असंशयं वृष्णिपतिर्यथोक्त;स्तथा च भूयश्च ततो महात्मा । अहं यदुक्तः परुषं तु किंचि;त्पितामहस्तस्य फलं शृणोतु ॥
न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम् । त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥
इत्येवमुक्त्वा स महाधनुष्मा;न्हित्वा सभां स्वं भवनं जगाम । भीष्मस्तु दुर्योधनमेव राज;न्मध्ये कुरूणां प्रहसन्नुवाच ॥
सत्यप्रतिज्ञः किल सूतपुत्र;स्तथा स भारं विषहेत कस्मात् । व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् ॥
आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च । अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् ॥
यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् । तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ॥
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे । वैचित्रवीर्यस्य सुतोऽल्पबुद्धि;र्दुर्योधनः शांतनवं बभाषे ॥
← Previous (Ch. 723) Full Table of Contents Next (Ch. 725) →