Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 46

Araṇyakaparva (Vanaparva) Adhyāya 46

अरण्यकपर्व • अध्यायः 46

Araṇyakaparva (Vanaparva) Adhyāya 46 of the classical Mahābhārata with 42 verses.

Total: 42 Verses • Citations: MBh 3.46.1–42 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः । धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ॥
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः । द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः । कच्चित्तवापि विदितं यथातथ्येन सारथे ॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः । मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः । त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् । कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः । येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः । अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे । महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः । अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् । सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः । वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ॥
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते । मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् । जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय । न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ॥
यथा हि किरणा भानोस्तपन्तीह चराचरम् । तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥
अपि वा रथघोषेण भयार्ता सव्यसाचिनः । प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥
यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी । सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ॥
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति । सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः । दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः । कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥
श्रुतं हि ते महाराज यथा पार्थेन संयुगे । एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥
कैरातं वेषमास्थाय योधयामास फल्गुनम् । जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् । अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् । साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् । कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम् । द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् । दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया । त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥
← Previous (Ch. 342) Full Table of Contents Next (Ch. 344) →