Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 6

Araṇyakaparva (Vanaparva) Adhyāya 6

अरण्यकपर्व • अध्यायः 6

Araṇyakaparva (Vanaparva) Adhyāya 6 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 3.6.1–23 • 250 Lexicon Terms
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः । प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते । ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥
ततः सरस्वतीकूले समेषु मरुधन्वसु । काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे । अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः । जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥
ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन । ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥
ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजा । अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ॥
कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति । कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् । गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः ॥
तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव । तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ॥
समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम् । स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥
अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य । एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ॥
मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव । तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ॥
परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः । यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ॥
न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति । यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि । नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ॥
सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान् । तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः । सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव ॥
यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः । सहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः । आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः ॥
एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः । यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥
← Previous (Ch. 302) Full Table of Contents Next (Ch. 304) →