Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 3

Araṇyakaparva (Vanaparva) Adhyāya 3

अरण्यकपर्व • अध्यायः 3

Araṇyakaparva (Vanaparva) Adhyāya 3 of the classical Mahābhārata with 34 verses.

Total: 34 Verses • Citations: MBh 3.3.1–34 • 250 Lexicon Terms
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः । पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः । न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे । कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् । युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् । ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥
गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः । दक्षिणायनमावृत्तो महीं निविशते रविः ॥
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः । दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥
निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः । ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् । पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥
राजानो हि महात्मानो योनिकर्मविशोधिताः । उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥
भीमेन कार्तवीर्येण वैन्येन नहुषेण च । तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः । तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः । धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् । योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः । गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः । विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥
धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने । नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः । मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥
जयो विशालो वरदः शीघ्रगः प्राणधारणः । धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् । धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥
सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ॥
सूर्योदये यस्तु समाहितः पठे;त्स पुत्रलाभं धनरत्नसंचयान् । लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ॥
इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः । स मुच्यते शोकदवाग्निसागरा;ल्लभेत कामान्मनसा यथेप्सितान् ॥
← Previous (Ch. 299) Full Table of Contents Next (Ch. 301) →