Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 4

Araṇyakaparva (Vanaparva) Adhyāya 4

अरण्यकपर्व • अध्यायः 4

Araṇyakaparva (Vanaparva) Adhyāya 4 of the classical Mahābhārata with 11 verses.

Total: 11 Verses • Citations: MBh 3.4.1–11 • 250 Lexicon Terms
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् । दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि । अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥
फलमूलामिषं शाकं संस्कृतं यन्महानसे । चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति । धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् । जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥
द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः । महानसे तदान्नं तु साधयामास पाण्डवः ॥
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् । अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि । शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः । युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः । कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु । यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः । द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् ॥
← Previous (Ch. 300) Full Table of Contents Next (Ch. 302) →