Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 23

Araṇyakaparva (Vanaparva) Adhyāya 23

अरण्यकपर्व • अध्यायः 23

Araṇyakaparva (Vanaparva) Adhyāya 23 of the classical Mahābhārata with 52 verses.

Total: 52 Verses • Citations: MBh 3.23.1–52 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः । शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः । अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह । अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥
अथ दानवसंघास्ते विकृताननमूर्धजाः । उदक्रोशन्महाराज विष्ठिते मयि भारत ॥
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे । अयोजयं तद्वधाय ततः शब्द उपारमत् ॥
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः । शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः ॥
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् । शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत । नादयामासुरसुरास्ते चापि निहता मया ॥
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत । सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥
ततो लोकान्तकरणो दानवो वानराकृतिः । शिलावर्षेण सहसा महता मां समावृणोत् ॥
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः । वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥
ततोऽहं पर्वतचितः सहयः सहसारथिः । अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा । ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥
ततो हाहाकृतं सर्वमभूत्किल विशां पते । द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥
ततो विषण्णमनसो मम राजन्सुहृज्जनाः । रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि । एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् । वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः । हया मम महाराज वेपमाना इवाभवन् ॥
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् । दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप । साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥
अलं कृष्णावमन्यैनं साधु यत्नं समाचर । मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥
जहि शाल्वं महाबाहो मैनं जीवय केशव । सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा । योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो । जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥
नैष मार्दवसाध्यो वै मतो नापि सखा तव । येन त्वं योधितो वीर द्वारका चावमर्दिता ॥
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः । तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥
वधाय शाल्वराजस्य सौभस्य च निपातने । दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् । आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥
यक्षाणां राक्षसानां च दानवानां च संयुगे । राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥
← Previous (Ch. 319) Full Table of Contents Next (Ch. 321) →