Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 22

Araṇyakaparva (Vanaparva) Adhyāya 22

अरण्यकपर्व • अध्यायः 22

Araṇyakaparva (Vanaparva) Adhyāya 22 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 3.22.1–31 • 250 Lexicon Terms
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः । युध्यमानो मया संख्ये वियदभ्यागमत्पुनः ॥
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च । चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ॥
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव । द्विधा त्रिधा चाच्छिनमाशु मुक्तै;स्ततोऽन्तरिक्षे निनदो बभूव ॥
ततः शतसहस्रेण शराणां नतपर्वणाम् । दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निव । स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥
इति तस्य निशम्याहं सारथेः करुणं वचः । अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये । अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् । अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे । अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् । त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥
आहुकस्य वचो वीर तस्यैव परिचारकः । विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः । केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन । विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥
तदलं साधु युद्धेन निवर्तस्व जनार्दन । द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः । निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् । जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन । तेषु रक्षां समाधाय प्रयातः सौभपातने ॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा । सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् । साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन । शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः । बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः । सुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥
ततोऽपश्यं महाराज प्रपतन्तमहं तदा । सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥
तस्य रूपं प्रपततः पितुर्मम नराधिप । ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः । प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम । मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् । मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥
प्रसार्य बाहू पततः प्रसार्य चरणावपि । रूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥
तं पतन्तं महाबाहो शूलपट्टिशपाणयः । अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥
ततो मुहूर्तात्प्रतिलभ्य संज्ञा;महं तदा वीर महाविमर्दे । न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ॥
ततो ममासीन्मनसि मायेयमिति निश्चितम् । प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ॥
← Previous (Ch. 318) Full Table of Contents Next (Ch. 320) →