Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 1

Araṇyakaparva (Vanaparva) Adhyāya 1

अरण्यकपर्व • अध्यायः 1

Araṇyakaparva (Vanaparva) Adhyāya 1 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 3.1.1–44 • 250 Lexicon Terms • Page 2 of 2 (Verses 14 shown)
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः । इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः । असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः । नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥
भीष्मः पितामहो राजा विदुरो जननी च मे । सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः । युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः ॥
निवर्ततागता दूरं समागमनशापिताः । स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम् । सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः । चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः । अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः । प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः । ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि । उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः । साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः । स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे । ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः । आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥
← Previous (Ch. 297) Full Table of Contents Next (Ch. 299) →