Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 19

Araṇyakaparva (Vanaparva) Adhyāya 19

अरण्यकपर्व • अध्यायः 19

Araṇyakaparva (Vanaparva) Adhyāya 19 of the classical Mahābhārata with 34 verses.

Total: 34 Verses • Citations: MBh 3.19.1–34 • 250 Lexicon Terms
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे । वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः ॥
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा । प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ॥
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः । रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ॥
नातिदूरापयाते तु रथे रथवरप्रणुत् । धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् ॥
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः । नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे । विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥
जानार्दने न मे मोहो नापि मे भयमाविशत् । अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥
सोऽपयामि शनैर्वीर बलवानेष पापकृत् । मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् । रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥
एकश्चासि महाबाहो बहवश्चापि दानवाः । नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ॥
एवं ब्रुवति सूते तु तदा मकरकेतुमान् । उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन । व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥
न स वृष्णिकुले जातो यो वै त्यजति संगरम् । यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च । विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥
त्वं च सूतकुले जातो विनीतः सूतकर्मणि । धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे । अपयानं पुनः सौते मैवं कार्षीः कथंचन ॥
अपयातं हतं पृष्ठे भीतं रणपलायिनम् । गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥
केशवस्याग्रजो वापि नीलवासा मदोत्कटः । किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः । अपयातं रणात्सौते साम्बश्च समितिंजयः ॥
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ । अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥
शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् । स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः ॥
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् । धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा । मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः । यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ॥
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः । शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः । तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥
उपयातं दुराधर्षं शङ्खचक्रगदाधरम् । पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः । मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः । त्वयापनीतो विवशो न जीवेयं कथंचन ॥
स निवर्त रथेनाशु पुनर्दारुकनन्दन । न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥
न जीवितमहं सौते बहु मन्ये कदाचन । अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् । अपयातं रणं हित्वा यथा कापुरुषं तथा ॥
न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज । मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥
← Previous (Ch. 315) Full Table of Contents Next (Ch. 317) →