Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 1

Araṇyakaparva (Vanaparva) Adhyāya 1

अरण्यकपर्व • अध्यायः 1

Araṇyakaparva (Vanaparva) Adhyāya 1 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 3.1.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् । किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः । वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् । किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ॥
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् । व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् । पतिव्रता महाभागा सततं सत्यवादिनी । वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन । श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् । कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा । उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश । रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् । ऊचुर्विगतसंत्रासाः समागम्य परस्परम् ॥
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः । यत्र दुर्योधनः पापः सौबलेयेन पालितः । कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् । यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः । अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः । साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः । ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च । ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः । वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः । उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् । कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः । शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा । पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥
मोहजालस्य योनिर्हि मूढैरेव समागमः । अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः । सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु । पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥
असतां दर्शनात्स्पर्शात्संजल्पनसहासनात् । धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः । लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः ॥
← Previous (Ch. 297) Full Table of Contents Next (Ch. 299) →