Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 61

Sabhāparva Adhyāya 61

सभापर्व • अध्यायः 61

Sabhāparva Adhyāya 61 of the classical Mahābhārata with 83 verses.

Total: 83 Verses • Citations: MBh 2.61.1–83 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर । यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज । यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ । एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः । भवत्यविजिता केन हेतुनैषा मता तव ॥
मन्यसे वा सभामेतामानीतामेकवाससम् । अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन । इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥
अस्याः सभामानयनं न चित्रमिति मे मतिः । एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥
यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः । सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः । पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत । अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् । सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ॥
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते । तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः । तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥
शशाप तत्र भीमस्तु राजमध्ये महास्वनः । क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ॥
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः । नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः । पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ॥
अस्य पापस्य दुर्जातेर्भारतापसदस्य च । न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् । प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥
यदा तु वाससां राशिः सभामध्ये समाचितः । ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः । सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह । स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः । विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् । न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् । तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः । विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः । भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः । अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः । अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः । कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥
← Previous (Ch. 285) Full Table of Contents Next (Ch. 287) →