Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 60

Sabhāparva Adhyāya 60

सभापर्व • अध्यायः 60

Sabhāparva Adhyāya 60 of the classical Mahābhārata with 48 verses.

Total: 48 Verses • Citations: MBh 2.60.1–48 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः । अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये ॥
त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः । क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव ॥
एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य । प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ॥
युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् । सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ॥
कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः । मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित् ॥
यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः । न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ॥
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज । किं नु पूर्वं पराजैषीरात्मानं मां नु भारत । एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ॥
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा । कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी । किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् । न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् । इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥
स गत्वा राजभवनं दुर्योधनवशानुगः । उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम् । न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि ॥
एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ । धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ॥
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् । द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥
एकवस्त्रा अधोनीवी रोदमाना रजस्वला । सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ॥
ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः । इहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥
ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः । विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि ॥
दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः । स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ॥
ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः । प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥
एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा । कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ॥
ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण । आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य ॥
ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः । दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ॥
ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः । ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ॥
स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम् । दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम् ॥
सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि । एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ॥
ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् । कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ॥
रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा । द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ॥
प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना । ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ॥
इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः । गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ॥
← Previous (Ch. 284) Full Table of Contents Next (Ch. 286) →